मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५६, ऋक् ४

संहिता

नू रो॑दसी बृ॒हद्भि॑र्नो॒ वरू॑थै॒ः पत्नी॑वद्भिरि॒षय॑न्ती स॒जोषा॑ः ।
उ॒रू॒ची विश्वे॑ यज॒ते नि पा॑तं धि॒या स्या॑म र॒थ्य॑ः सदा॒साः ॥

पदपाठः

नु । रो॒द॒सी॒ इति॑ । बृ॒हत्ऽभिः॑ । नः॒ । वरू॑थैः । पत्नी॑वत्ऽभिः । इ॒षय॑न्ती॒ इति॑ । स॒ऽजोषाः॑ ।
उ॒रू॒ची इति॑ । विश्वे॒ इति॑ । य॒ज॒तेे इति॑ । नि । पा॒त॒म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

सायणभाष्यम्

हे रोदसी द्यावा पृथिव्यौ नु क्शिप्रं पत्नीवद्भिः पत्नी सहितैर्बृहद्भिर्महद्भिर्वरुथैर्गृहैर्धनैर्वा सहेषयन्ती अस्माकमन्नमिच्छन्त्यौ सजोषाः परस्परं सङ्गते उरूची उर्वञ्चने विश्वे व्याप्ते यजते यष्तव्ये सत्यौ नोऽस्मान् निपातम् । नितराम् रक्शतम् । धियेत्यादि गतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः