मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५६, ऋक् ५

संहिता

प्र वां॒ महि॒ द्यवी॑ अ॒भ्युप॑स्तुतिं भरामहे ।
शुची॒ उप॒ प्रश॑स्तये ॥

पदपाठः

प्र । वा॒म् । महि॑ । द्यवी॒ इति॑ । अ॒भि । उप॑ऽस्तुतिम् । भ॒रा॒म॒हे॒ ।
शुची॒ इति॑ । उप॑ । प्रऽश॑स्तये ॥

सायणभाष्यम्

प्र वामित्यादिगायत्रस्तृचो व्यूढे दशरात्रे वैश्वदेवशस्त्रे द्यावापृथिव्यनिविद्धानीयत्वेन प्रक्षेप्यः । तथा च सुत्रितम् । प्र वां महि द्यवि इति तृचौ । आ. ८-११ । इति ॥

हे द्यावापृथिव्यौ द्यवी द्योतमाने वां युवाभ्यामुपस्तुतिं स्तोत्रं महि महत्प्रभूतमभि प्र भरामहे । प्रकर्षेण सम्पादयामः । शुची शुद्धे युवां प्रशस्तये प्रशंसितुमुप । उपसर्गश्रुतेरुचितक्रियाध्याहारः । उप गच्छाम इति शेशः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः