मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५६, ऋक् ६

संहिता

पु॒ना॒ने त॒न्वा॑ मि॒थः स्वेन॒ दक्षे॑ण राजथः ।
ऊ॒ह्याथे॑ स॒नादृ॒तम् ॥

पदपाठः

पु॒ना॒ने इति॑ । त॒न्वा॑ । मि॒थः । स्वेन॑ । दक्षे॑ण । रा॒ज॒थः॒ ।
ऊ॒ह्याथे॒ इति॑ । स॒नात् । ऋ॒तम् ॥

सायणभाष्यम्

हे देव्यौ तन्वा स्वकीयया मूर्त्या स्वेन दक्षेण बलेन च मिथः प्रत्येकं पुनाने शोधयन्त्यौ यज्ञं यजमानं वा युवां राजथः । यद्वा । तन्वा स्वस्वशरीरैकदेशेन मिथः परस्परं पुनाने शोधयन्तौ । द्यौः स्वीयेनासारेण भुवं सा च स्वकीयेन कार्श्येन चन्द्रमसि स्थितेन दिवमिति विवेकः । सनात्सदाकालमृतं यज्ञमूह्याथे । वहथः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः