मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५६, ऋक् ७

संहिता

म॒ही मि॒त्रस्य॑ साधथ॒स्तर॑न्ती॒ पिप्र॑ती ऋ॒तम् ।
परि॑ य॒ज्ञं नि षे॑दथुः ॥

पदपाठः

म॒ही इति॑ । मि॒त्रस्य॑ । सा॒ध॒थः॒ । तर॑न्ती॒ इति॑ । पिप्र॑ती॒ इति॑ । ऋ॒तम् ।
परि॑ । य॒ज्ञम् । नि । से॒द॒थुः॒ ॥

सायणभाष्यम्

मही महतौ द्यावापृथिव्यौ मित्रस्य मित्रभुतस्य स्तोतुरभिमतं साधथः । ऋतमन्नं तरन्ती तारयन्त्यौ पिप्रती पूरयन्त्यौ यज्ञम् परि परितो नि षेदथुः । आश्रयतः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः