मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५७, ऋक् १

संहिता

क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि ।
गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥

पदपाठः

क्षेत्र॑स्य । पति॑ना । व॒यम् । हि॒तेन॑ऽइव । ज॒या॒म॒सि॒ ।
गाम् । अश्व॑म् । पो॒ष॒यि॒त्नु । आ । सः । नः॒ । मृ॒ळा॒ति॒ । ई॒दृशे॑ ॥

सायणभाष्यम्

क्षेत्रस्य पतिनेत्यष्तर्चं द्वादशं सूक्तं वामदेवस्यार्षम् । आद्याचतुर्थी षष्ठीसप्तम्योऽनुष्टुभः पञ्चमी पुरौष्णिक् । अद्यश्चेत्पुरौष्णिगिति हि तल्लक्शणम् । शिष्टास्तिस्रस्त्रिष्टुभः । आद्यास्तिस्रः क्षेतपतिदेवताकाश्चतुर्थी शुनाख्य देवताका पञ्चम्यष्टम्या शुनासीरदेवताके । षष्ठीसप्तम्यौ सीतादेवताके । तथा चानुक्रमणिका । क्षेत्रस्याष्टौ तिस्रः क्षैत्रपत्याः शुनायैका परा पुरौष्णिक् सान्त्या च शुनासीराभ्यामुपान्त्ये सीतायै ते अनुष्टुभावाद्या च चतुर्थी चेति । क्षेत्रस्य कर्षणेऽनेन सूक्तेन प्रत्युचं जुहुयाज्जपेद्वा । तथा च सुत्रितम् । क्षेत्रस्य कर्षनेऽनेन सुक्तेन प्रत्युचं जुहुयाज्जपेद्वा । आ. गृ. २-१० । अप्तोर्यामे होतुरतिरिक्तोक्थ्य आश्विनशस्त्रादूर्ध्वं चत्वार्यतिरिक्तोक्थ्यानि । तत्राद्या परिधानीया । सूत्रितं च । क्षेत्रस्य पतिना वयमिति परिधानीया । आ. ९-११ । इति ॥

वयम् यजमानाह् क्षेत्रस्य पतिना देवेन । रुद्रं क्षेत्रपतिं प्राहुः केचिदग्निमथापरे । स्रतन्त्र एव वा कश्चित्क्षेत्रस्य पतिरुच्यते । हितेनेव । इवशब्द एवार्थे । सर्वप्राणिहितेनैव तेन । अथवा मित्रेणेव । यथा सख्युः साहाय्ये सन् स्वकार्यं साधयति तद्वत् । जयामसि । जयामः क्षेत्रम् । स देवो गामश्वं च पोषयित्नु पोषयितृ गवाश्वलक्षनं धनमा हरत्विति शेषः । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । स एव देवो नोऽस्मानीदृश उक्तलक्षने धने दातव्ये सति मृळाति । सुखयति । क्शेत्रस्य पतिनेत्यादिनिरुक्तम् । १०-१५ । जानीयात् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः