मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५७, ऋक् २

संहिता

क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व ।
म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ न॒ः पत॑यो मृळयन्तु ॥

पदपाठः

क्षेत्र॑स्य । प॒ते॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । धे॒नुःऽइ॑व । पयः॑ । अ॒स्मासु॑ । धु॒क्ष्व॒ ।
म॒धु॒ऽश्चुत॑म् । घृ॒तम्ऽइ॑व । सुऽपू॑तम् । ऋ॒तस्य॑ । नः॒ । पत॑यः । मृ॒ळ॒य॒न्तु॒ ॥

सायणभाष्यम्

अप्तोर्यामे मैत्रावरुणस्यातिरिक्तोक्थ्ये परिधानीया । सूत्रितं च । क्षेत्रस्य पते मधुमन्तमूर्मिमिति परिधानीया । आ. ९-११ । इति ॥

हे क्षेत्रस्य पते त्वं मधुमन्तं माधुर्योपेतमूर्मिं प्रवृद्धमुदकं धेनुः पय इव सा यथा दुग्धे तथास्मासु धुक्श्व । मधुश्चुतम् मधुस्रावि सूपूतं घृतमिवेत्युपमा । तादृशमुदकमित्यर्थः । रुतस्य यज्ञस्योदकस्य वा पतयः स्वामिनो नोऽस्मान् मृळयन्तु । सुखयन्तु । यद्वा । ऋतस्यैतत्कर्मणि षष्थी । ऋतं म्रुळयन्तु । प्रयच्छन्तु । मृळतिरत्र दानकर्मा ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः