मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५७, ऋक् ३

संहिता

मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् ।
क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम ॥

पदपाठः

मधु॑ऽमतीः । ओष॑धीः । द्यावः॑ । आपः॑ । मधु॑ऽमत् । नः॒ । भ॒व॒तु॒ । अ॒न्तरि॑क्षम् ।
क्षेत्र॑स्य । पतिः॑ । मधु॑ऽमान् । नः॒ । अ॒स्तु॒ । अरि॑ष्यन्तः॑ । अनु॑ । ए॒न॒म् । च॒रे॒म॒ ॥

सायणभाष्यम्

ब्राह्मणाच्छंसिनोऽतिरिक्तोक्थ्ये परिधानीयैषा । मधुमतीरोषधीर्द्याव आप इति परिधानीया । आ. ९-११ । इति सूत्रितत्वात् ॥

ऒशधिरोषध्यो व्रीहिप्रियङ्ग्वादयो नोऽस्मभ्यम् मधुमतीर्मधुमत्योभवन्तु । तथा द्यावः । तिस्रो दिव इत्युक्तत्वाद्बहुवचनं युक्तम् । तथापोऽन्तरिक्षम् च नो मधुमद्भवतु । किञ्च क्षेत्रस्य पतिरपि मधुमान्नोऽस्तु । अरिष्यन्तोऽन्यैरहिंस्यन्तो वयमेनं क्षेत्रपतिमनु अनुसृत्य चरेम । सञ्चरेम सुखेन ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः