मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५७, ऋक् ४

संहिता

शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम् ।
शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥

पदपाठः

शु॒नम् । वा॒हाः । शु॒नम् । नरः॑ । शु॒नम् । कृ॒ष॒तु॒ । लाङ्ग॑लम् ।
शु॒नम् । व॒र॒त्राः । ब॒ध्य॒न्ता॒म् । शु॒नम् । अष्ट्रा॑म् । उत् । इ॒ङ्ग॒य॒ ॥

सायणभाष्यम्

वाहा बलीवर्दाः शुनम् । सुखानामैतत् । सुखं यथा भवति तथा वहन्त्विति शेशः । तथा नरो नेतारो मनुष्याः कर्षकाः शुनं कुर्वन्तु । तथा लाङ्गलमपि शुनं कृषतु । वरत्रा वरणेन त्रायमाणाः प्रग्रहाः शुनं बध्यन्ताम् । अष्ट्रां प्रतोदं शुनमुदिङ्गय । प्रेरय । शुनाख्यो वाय्विन्द्रयोरन्यतमः सुखकृद्देवः । तदनुग्रहादेतत्सर्वं भवत्विति । तस्य श्रुतिसामान्येन स्तुतिः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः