शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथु॒ः पयः॑ ।
तेने॒मामुप॑ सिञ्चतम् ॥
शुना॑सीरौ । इ॒माम् । वाच॑म् । जु॒षे॒था॒म् । यत् । दि॒वि । च॒क्रथुः॑ । पयः॑ ।
तेन॑ । इ॒माम् । उप॑ । सि॒ञ्च॒त॒म् ॥
शुनासीरीये पर्वणि शुनासीरदेवताकस्य हविषोऽनुवाक्यैषान्त्या ऋक् यज्या । सुत्रितं च । शुनासीराविमां वाचं जुषेथां शुनं नः फालाः । आ. २-२० । इति ॥
द्युदेवः शुनदेवतेति शौनकः । अतः शुन इन्द्रः सीरो वायुः । शुनो वायुः शु एत्यन्तरिक्षे सीर आदित्यः सरणात् । नि. ९-४० । इति यास्कः । हे शुनासीरौ तौ युवामिमां वक्ष्यमाणां मदीयां वाचं ज्य्शेथाम् । यत्पयो दिवि चक्रथुःतेनेमां भूमिमुप सिञ्चतम् ॥ ५ ॥