मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५७, ऋक् ७

संहिता

इन्द्र॒ः सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु ।
सा न॒ः पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥

पदपाठः

इन्द्रः॑ । सीता॑म् । नि । गृ॒ह्णा॒तु॒ । ताम् । पू॒षा । अनु॑ । य॒च्छ॒तु॒ ।
सा । नः॒ । पय॑स्वती । दु॒हा॒म् । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥

सायणभाष्यम्

इन्द्रो देवः सीतां सीताधारकाष्ठाम् नि गृह्णातु । तां सीतां पूषा देवोऽनु यच्छतु । नियमयत् । सा द्यौः पयस्वत्युदकवती दुहाम् । दुह्यात् । कदेति तदुच्यते । उत्तरामुत्तरां समामुत्तरमुत्तरं संवत्सरम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः