मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५७, ऋक् ८

संहिता

शु॒नं न॒ः फाला॒ वि कृ॑षन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः ।
शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भि॒ः शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ॥

पदपाठः

शु॒नम् । नः॒ । फालाः॑ । वि । कृ॒ष॒न्तु॒ । भूमि॑म् । शु॒नम् । की॒नाशाः॑ । अ॒भि । य॒न्तु॒ । वा॒हैः ।
शु॒नम् । प॒र्जन्यः॑ । मधु॑ना । पयः॑ऽभिः । शुना॑सीरा । शु॒नम् । अ॒स्मासु॑ । ध॒त्त॒म् ॥

सायणभाष्यम्

अस्या अष्टम्या विनियोगः शुनासीराविमामित्यत्रोक्तः ॥

नो भूमिं फाला भूमिविदारककाष्ठाः शुनं वि कृषन्तु । शुनं यथा भवति तथा । कीनाशा बलीवर्दरक्षका वाहैर्बलीवर्दैरभि यन्तु । आभिगच्छन्तु । शुनं यथा भवति तथा । पर्जन्यो मधुना मधुरैः पयोभिरुदकैः सञ्चतु । हे शुनासीरा इन्द्रवायू वाय्वादित्यौ वा शुनं सुखमस्मासु धत्तम् । धारयन्तं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः