मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५८, ऋक् १

संहिता

स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑र॒दुपां॒शुना॒ सम॑मृत॒त्वमा॑नट् ।
घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑ः ॥

पदपाठः

स॒मु॒द्रात् । ऊ॒र्मिः । मधु॑ऽमान् । उत् । आ॒र॒त् । उप॑ । अं॒शुना॑ । सम् । अ॒मृ॒त॒ऽत्वम् । आ॒न॒ट् ।
घृ॒तस्य॑ । नाम॑ । गुह्य॑म् । यत् । अस्ति॑ । जि॒ह्वा । दे॒वाना॑म् । अ॒मृत॑स्य । नाभिः॑ ॥

सायणभाष्यम्

समुद्रादूर्मिरित्येकादशर्चं त्रयोदशं सूक्तम् । अन्त्या जगती शिष्टास्त्रिष्टुभः । अग्निसूर्याभ्गोघृतानामन्यतमो देवता । वामदेव ऋषिः । अत्रानुक्रमणिका । समुद्रादूर्मिरेकादशाग्नेयं जगत्यन्तं सौर्यं वापम् वा गव्यम् वा घृतस्तुतिर्वेति । विषुवतीदं सूक्तमाज्यम् । तथा च सूत्रम् । समुद्रादुर्मिरित्याज्यंत्यं सुमेषम् । आ. ८-६ । इति । व्यूढे दशरात्रे सप्तमेऽहनीदमेव सूक्तमाज्यम् । सूत्रितं च । अथ छन्दोमाः समुद्रादूर्मिरित्याज्यम् । आ. ८-९ । इति ॥

संमोदन्तेऽस्मिन्यजमाना इति वा समुद्रोग्निः पार्थिवः अथवा समुद्द्रवन्त्यापोऽस्मादिति व्युत्पत्त्या वैद्युतोऽग्निः । तस्मादूर्मिरूर्मिवदुपर्युपर्युद्भुतो मधुमान्माधुर्योपेतफलसमूह उदारत् । उद्गच्छति । अथवा वैद्युतादूर्मुत्पादको रस उदारत् । उद्भुतः । अथवा समुद्रात्समुद्द्रवणसाधनादादित्यादूर्मी रस उदकलक्षन उदारत् । आदित्याज्जायते व्रुष्तिरिति श्रुतेः । यद्वा । समुद्रादुक्तव्युत्पत्तेरन्तरिक्षादूर्मिरुदकमुदारत् । अथवा समुद्रादुक्तलक्शणाद्गवामूधसः सकाशादूर्मिरुज्ज्वलः क्षीररसः । एतद्घृतपक्शेऽपि समानम् । यद्यपि घृतं क्षीराज्जायते तथापि तस्योधस उत्पत्तेरेवमुपचर्यते । शिष्टं वाक्यमग्न्यादिपञ्चसु पक्षेश्वपि समानम् । अंशुना दीप्त्यांशेन वामृतत्वं मोक्षमुपसमानट् । उपेति पूरणः । प्राप्नोति नरः । घृतस्य दीप्तस्य क्शीरद्रव्यरूपस्य वा गुह्यं नाम गोपनीयं नमनसाधनं यदस्ति तद्ब्रवीमि । तद्देवानां जिह्वास्वादकजिह्वास्थानीयं भवति । तदेवामृतस्य नाभिर्बन्धकं भवति । तदुभयं भृतस्य नामेत्यर्थः । एवं सर्वमन्त्रेषु तत्तत्पक्षानुसारेन योज्यं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०