मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५८, ऋक् २

संहिता

व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतु॑ःशृङ्गोऽवमीद्गौ॒र ए॒तत् ॥

पदपाठः

व॒यम् । नाम॑ । प्र । ब्र॒वा॒म॒ । घृ॒तस्य॑ । अ॒स्मिन् । य॒ज्ञे । धा॒र॒या॒म॒ । नमः॑ऽभिः ।
उप॑ । ब्र॒ह्मा । शृ॒ण॒व॒त् । श॒स्यमा॑नम् । चतुः॑ऽशृङ्गः । अ॒व॒मी॒त् । गौ॒रः । ए॒तत् ॥

सायणभाष्यम्

वयं यजमाना घृतस्य नाम प्र ब्रवाम । स्तुमः । अस्मिन्यज्ञे नमोभिर्नमस्कारैर्हविर्भिर्वा धारयाम च । ब्रह्मा परिवृढो देवः शस्यमानं स्तूयमानमिदमुप शृणुवत् । शृणुयात् । चतुः शृङ्गः । चत्वारि शृङ्गाणि देवचतुष्टयरूपाणि यस्य सः । आदित्याग्निपक्श एवम् । इतरेष्वपि यास्कोक्तव्युत्पत्त्या शृङ्गशब्दो व्याख्येयः । गौरोऽरुनवर्णस्तादृशो देव एतत्कर्म जगद्वावमीत् । उद्गिरति । निर्वहतीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०