मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५८, ऋक् ३

संहिता

च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य ।
त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥

पदपाठः

च॒त्वारि॑ । शृङ्गा॑ । त्रयः॑ । अ॒स्य॒ । पादाः॑ । द्वे इति॑ । शी॒र्षे इति॑ । स॒प्त । हस्ता॑सः । अ॒स्य॒ ।
त्रिधा॑ । ब॒द्धः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ । म॒हः । दे॒वः । मर्त्या॑न् । आ । वि॒वे॒श॒ ॥

सायणभाष्यम्

यद्यपि सूक्तस्याग्निसूर्यादिपञ्चदेवताकत्वात्पञ्चधायं मन्त्रो व्याख्येयस्तथापि निरुक्ताद्युक्तनीत्या यज्ञात्मकाग्नेः सूर्यस्य च प्रकाशकत्वेन तत्परतया व्याख्यायते । अस्य यज्ञात्मकस्याग्नेश्चत्वारि शृङ्गा चत्वारो वेदाः शृङ्गस्थानीयाः । यद्यप्यापस्तम्बेन यज्ञं व्याख्यास्यामः स त्रिभिर्वेदैर्विधीयते । परिभा. १-३ । इत्युक्तं तथाप्याथर्वणस्येतरानपेक्शयैवैकाग्निसाध्यानां क्रुत्स्न कर्मणामभिधायकत्वात्तादपेक्शया चत्वारि शृङ्गेत्युक्तम् । त्रयो अस्य पादाः सवनानि त्रीण्यस्य पादाः । प्रवृत्तिसाधनत्वात्पादा इत्युच्यन्ते । द्वे शीर्षे बह्मौदनं प्रवर्ग्यश्च । इष्टसोमप्राधान्येनेदमुक्तम् । सप्त हस्तासः सप्त छन्दांसि । हस्ता अनुष्थानस्य मुख्यसाधनम् । छन्दांस्यपि देवताप्रीणनस्य मुख्यसाधनमिति हस्तव्यवहारः । त्रिधा बद्धो मन्त्रकल्पब्राह्मणैस्त्रिप्रकारं बद्धः । बन्धनमस्य तन्निष्पाद्यत्वम् । वृशभः फलानां वर्षिता रोरवीति । भृशं शब्दायते । ऋग्यजुःसामोक्थ्यैः शस्त्रयागस्तुतिरूपैर्होत्राद्युत्पादितैर्ध्वनिभिरसौ रौति । एवं महो देवो मर्त्याना विवेश । मर्त्यैर्यजमानैर्निष्पाद्यत्वात्प्रवेश उपचर्यते । अत्र यास्कश्चत्वारि शृङ्गेति वेदा वा एत उक्ताः । नि. १३-७ । इत्यादिना निरवोचत् । तदत्रानुसन्धेयम् । अथा सूर्यपक्शे व्याख्यायते । अस्यादित्यस्य चत्वारि शृङ्गाणि चतस्रो दिशः । एताः श्रयणार्थत्वाच्छृङ्गाणीत्युपचर्यन्ते । त्रयो अस्य पादाः । त्रयो वेदाः पादस्थानीया भवन्ति गमनसाधनत्वात् । तथा ह्यृग्भिः पुर्वाह्णे दिवि देव ईयत इत्युपक्रम्य वेदैरशून्यस्त्रिभिरेति सूर्यः । तै.ब्रा. ३-१२-९-१ । इति हि वेदत्रयेण गतिराम्नाता । द्वेशीर्षे । अहश्च रात्रिश्चेति द्वे शिरसी । सप्त हस्तासो अस्य । सप्त रश्मयः षद्विलक्शणा ऋतव एकः साधारन इति वा सप्त हस्ता भवन्ति । त्रिधा बद्धस्त्रिषु स्थानेशु क्शित्यादिष्वग्न्याद्यात्मकत्वेन सम्बद्धः । ग्रीष्म वर्षाहेमन्ताख्यैस्त्रिभिस्त्रेधा बद्धो वा । व्रुषभो वर्शिता रोरवीति । शब्दं करोति व्रुष्ट्यादिद्वारा । स महो महान् देवो मर्त्याना विवेश तन्नियन्तृतया । सूर्य आत्मा जगतस्तस्थुषश्च । ऋग्वे. १-११५-१ । इति हि श्रुतम् । एवं त्वबादितपक्षेऽपि योज्यम् । शाब्दिकास्तु शब्दब्रह्मपरतया चत्वारि शृङ्गेति चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्चेत्यादिना व्याचक्शते । अपरे त्वपथा । तत्सर्वमत्र द्रष्टव्यं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०