मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५८, ऋक् ४

संहिता

त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।
इन्द्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥

पदपाठः

त्रिधा॑ । हि॒तम् । प॒णिऽभिः॑ । गु॒ह्यमा॑नम् । गवि॑ । दे॒वासः॑ । घृ॒तम् । अनु॑ । अ॒वि॒न्द॒न् ।
इन्द्रः॑ । एक॑म् । सूर्यः॑ । एक॑म् । ज॒जा॒न॒ । वे॒नात् । एक॑म् । स्व॒धया॑ । निः । त॒त॒क्षुः॒ ॥

सायणभाष्यम्

पणिभिरसुरैर्गवि गोषु त्रिधा क्शीरदध्याज्यभेदेन त्रिप्रकारं हितं निहितं गुह्यमानं गोपितं घृतं दीप्तं रसरूपं वा द्रव्यं देवासो देवा अन्वविन्दन् । आलभन्त । तत्रेन्द्रं एकं क्षीरं जजान । उदपादयत् । सूर्य एकं जजान । वेनात्कान्तिमतोऽग्नेर्गमनवतो वायोर्वैकं घृतं स्वधायान्नेन निमित्तेन द्रव्येण वा साधनेन निष्ततक्षुः । निरपादयन् देवाः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०