मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५८, ऋक् ६

संहिता

स॒म्यक्स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।
ए॒ते अ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ॥

पदपाठः

स॒म्यक् । स्र॒व॒न्ति॒ । स॒रितः॑ । न । धेनाः॑ । अ॒न्तः । हृ॒दा । मन॑सा । पू॒यमा॑नाः ।
ए॒ते । अ॒र्ष॒न्ति॒ । ऊ॒र्मयः॑ । घृ॒तस्य॑ । मृ॒गाःऽइ॑व । क्षि॒प॒णोः । ईष॑माणाः ॥

सायणभाष्यम्

अस्याग्नेरुपरि सम्यक् स्रवन्ति । क्षरन्ति । घृतस्य धाराः । किमिव । सरितो न धेनाः प्रीणयित्र्यो नद्य इव । अन्तर्हृदा मनसा हृदयमध्यगतेन चित्तेन । भावनासचिवेनेति यावत् । तेन पूयमानाः शुद्धीकृताः । तेदेवोच्यते । एते घृतस्योर्मयो रसा अर्शन्ति । गच्छन्ति । जुह्वाः सकाशादग्नेरुपरि पतन्ति । किमिव । क्षिपणोः क्षेपकाद्व्याधादिषमाणाः पलायमाना मृगा इव । ते यथा कक्शं प्रविशन्ति तद्वत् । अनेन शैघ्र्यमुक्तं भवति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११