मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५८, ऋक् ७

संहिता

सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः ।
घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभि॒ः पिन्व॑मानः ॥

पदपाठः

सिन्धोः॑ऽइव । प्र॒ऽअ॒ध्व॒ने । शू॒घ॒नासः॑ । वात॑ऽप्रमियः । प॒त॒य॒न्ति॒ । य॒ह्वाः ।
घृ॒तस्य॑ । धाराः॑ । अ॒रु॒षः । न । वा॒जी । काष्ठाः॑ । भि॒न्दन् । ऊ॒र्मिभिः॑ । पिन्व॑मानः ॥

सायणभाष्यम्

सिन्धोः स्यन्दमानाया नद्याः सकाशादिवोदकानीव प्राध्वने प्रवणवति देशे शूघनास आशुगन्त्र्यः । आशु इति च शु इति च क्षिप्रनामनी भवत इति निरुक्तम् । ६-१ । वातप्रमियो वायुवत्प्रकृष्टवेगा यह्वा महत्यो घृतस्य धाराः पतयन्ति । गच्छन्त्यग्नेरुपरि । घृतमुदकमिति पक्षे सिन्धोरिवेत्यत्रेवशब्दोऽनर्थकः । स्यन्दनसाधनादन्तरिक्षादुक्तलक्शणा घृतधारा उदकधाराः पतयन्ति । गच्छन्ति भुमौ । किञ्च घृतसंस्त्यायः काष्ठा मर्यादाभूतान्परिधीन्भिन्दन्नूर्मिभी रसैः पिन्वमानो वर्धमानो भवति । उदकमिति पक्शे काष्ठाः क्रान्त्वा स्थिता दिशो भिन्दन्नूर्मिभिस्तरङ्गैः पिन्वमानो भवति । तत्र दृष्टान्तः । अरुषो न वाजी आरोचमानो गर्वेन गमनशीलोऽश्व इव । स यथा भिन्दन्पिन्वमानश्च भवति तद्वत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११