मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५८, ऋक् ९

संहिता

क॒न्या॑ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य॑ञ्जा॒ना अ॒भि चा॑कशीमि ।
यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वन्ते ॥

पदपाठः

क॒न्याः॑ऽइव । व॒ह॒तुम् । एत॒वै । ऊं॒ इति॑ । अ॒ञ्जि । अ॒ञ्जा॒नाः । अ॒भि । चा॒क॒शी॒मि॒ ।
यत्र॑ । सोमः॑ । सू॒यते॑ । यत्र॑ । य॒ज्ञः । घृ॒तस्य॑ । धाराः॑ । अ॒भि । तत् । प॒व॒न्ते॒ ॥

सायणभाष्यम्

कन्या इवनुधा बालिका इव । ता यथा वहतुमुद्वाहं प्राप्तुमेतवा उ एतुं पतिं गन्तुमंज्यञ्जकमाभरणं तेजो वाञ्जना व्यञ्जयन्त्यः । एवं कुर्वत्यः कन्या इव स्वभर्तृभुतमाध्वरं वैद्युतं वाग्निमादित्यं वा वहतुमेतुमञ्जि व्यञ्जकं तदीयं रूपमञ्जाना व्यञ्जयन्तीर्घृतस्य धारा अभिचाकशीमि । अभिपश्यामि । घृतेनोदकेन च भ्ॐअस्य वैद्युतस्य चाग्नेः प्रज्वलनं प्रसिद्धम् । किञ्च ता धाराः सोमः सूयते यत्र यत्र चेतरो यज्ञस्तायते तत्तं यज्ञमभिलक्ष्य पवन्ते । गच्छन्ति खलु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११