मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५८, ऋक् ११

संहिता

धाम॑न्ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य१॒॑न्तरायु॑षि ।
अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ॥

पदपाठः

धाम॑न् । ते॒ । विश्व॑म् । भुव॑नम् । अधि॑ । श्रि॒तम् । अ॒न्तरिति॑ । स॒मु॒द्रे । हृ॒दि । अ॒न्तः । आयु॑षि ।
अ॒पाम् । अनी॑के । स॒म्ऽइ॒थे । यः । आऽभृ॑तः । तम् । अ॒श्या॒म॒ । मधु॑ऽमन्तम् । ते॒ । ऊ॒र्मिम् ॥

सायणभाष्यम्

धामन्त इत्येषोत्तरसूक्तस्याद्या चाध्यायोत्सर्जनोपाकरनयोर्विनियुक्ते । धामन्ते विश्वमिति प्रतीकमुक्त्वा तदन्ते द्वृचाः । आ. गृ. ३-५ । इति सूत्रितत्वात् ।

ते त्वदीये धामन्धामनि तेजः स्थाने विश्वं भुवनमधिश्रितम् । अन्तः समुद्रे वडवाग्नित्वेन ह्रुद्यन्तः सर्वप्राणिनां ह्रुदये वैश्वानरत्वेनायुष्यन्ने सर्वप्राण्याहारत्वेन । यद्वा । आयुशीत्येतद्धृद्विशेशणम् । जठराग्निना खल्वायुर्धार्यते । अपामनीक उदकसंस्त्याये वैद्युताग्नित्वेन समिथे सङ्ग्रामे च शौर्याग्निरूपेण । एवं सर्वेषु स्थानेषु वर्तमानं धाम । तस्मिन्धामनि य ऊर्मिर्घृतरूपो वा रस आभृतः स्थापितः ते त्वदीयं तं रसं मधुमन्तं माधुर्योपेतमश्याम । व्याप्नुयाम ॥ ११ ॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन् ।
पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११