मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १, ऋक् ३

संहिता

यदीं॑ ग॒णस्य॑ रश॒नामजी॑ग॒ः शुचि॑रङ्क्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः ।
आद्दक्षि॑णा युज्यते वाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वो अ॑धयज्जु॒हूभि॑ः ॥

पदपाठः

यत् । ई॒म् । ग॒णस्य॑ । र॒श॒नाम् । अजी॑ग॒रिति॑ । शुचिः॑ । अ॒ङ्क्ते॒ । शुचि॑ऽभिः । गोभिः॑ । अ॒ग्निः ।
आत् । दक्षि॑णा । यु॒ज्य॒ते॒ । वा॒ज॒ऽयन्ती॑ । उ॒त्ता॒नाम् । ऊ॒र्ध्वः । अ॒ध॒य॒त् । जु॒हूभिः॑ ॥

सायणभाष्यम्

यद्यदेमयमग्निर्गणस्य सङ्घात्मकस्य जगतो रशनां रज्जुरिव व्यापारप्रतिबन्धकं तमोऽजीगः । गिरति गृह्णाति वा । समिद्धो भवतीत्यर्थः । तदा शुचिर्दीप्तोऽग्निः शुचिभिर्गोभिर्दीप्तैः रश्मिभिरङ्क्ते । व्यनक्ति विश्वं जगत् । आदनन्तरमेव दक्षिणा प्रवृद्धा वाजयन्त्यन्नमिच्छन्त्याज्यधारा युज्यते । युक्ता भवति । अथवा दक्षिणा पव्यद्धाज्यधारा युज्यते । तां च धारामुत्तानामूर्ध्वतानामुपरि विस्तृतामूर्ध्व उन्नतः सन् जुहूभिरधयत् । पिबति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२