मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १, ऋक् ५

संहिता

जनि॑ष्ट॒ हि जेन्यो॒ अग्रे॒ अह्नां॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु ।
दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी॑यान् ॥

पदपाठः

जनि॑ष्ट । हि । जेन्यः॑ । अग्रे॑ । अह्ना॑म् । हि॒तः । हि॒तेषु । अ॒रु॒षः । वने॑षु ।
दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑नः । अ॒ग्निः । होता॑ । नि । स॒सा॒द॒ । यजी॑यान् ॥

सायणभाष्यम्

अयमग्निर्जेन्य उत्पादनीयोऽह्नामग्र उदयकाले जनिष्ट । प्रादुरभूत् । पश्चात् हितेषु वनेषु वनोत्थेषु काष्ठेष्वरुष आरॊचमानः सन् हितः । स्थापितः । पश्चाद्दमे दमे तत्तद्यागगृहे सप्त रत्ना रमणीयाः सप्त ज्वाला दधानो धारयमाणः । अथवा यजमानेभ्यः सप्तविधानि रत्नानि दधानोऽग्निर्होता होमनिष्पादकः सन् यजीयान्यष्टव्यः सन् नि षसाद । निषण्णो भवति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२