मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १, ऋक् ६

संहिता

अ॒ग्निर्होता॒ न्य॑सीद॒द्यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भा उ॑ लो॒के ।
युवा॑ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥

पदपाठः

अ॒ग्निः । होता॑ । नि । अ॒सी॒द॒त् । यजी॑यान् । उ॒पऽस्थे॑ । मा॒तुः । सु॒र॒भौ । ऊं॒ इति॑ । लो॒के ।
युवा॑ । क॒विः । पु॒रु॒निः॒ऽस्थः । ऋ॒तऽवा॑ । ध॒र्ता । कृ॒ष्टी॒नाम् । उ॒त । मध्ये॑ । इ॒द्धः ॥

सायणभाष्यम्

जीवति यजमाने मृत इति शब्दो यदि स्यात्तदानीं सुरभिमतीष्ठिः कार्या । तत्रेयमनुवाक्या । सूत्रितं च । अग्निर्होता न्यसीदद्यजीयान्त्साध्वीमकर्देववीतिं नो अद्य । ऐ. ब्रां. ७-९ । इति ॥

अयमग्निर्होता होमनिश्पादहः सन् यजीयान्यश्टव्यश्च सन् न्यसीदत् । निषसाद । कुत्रेति तदुच्यते । मातुः सर्वस्य निर्मातुर्भूम्या उपस्थ उत्सङ्गे तत्रापि सुरभावाज्यादिसौरभ्ययुक्ते लोके सर्वैर्द्रष्टव्ये स्थाने वेदिलक्षणे । उतापि च युवा नित्यतरुणः सर्वत्र मिश्रितो वा कविर्मेधावी पुरुनिःष्ठो बहुस्थान ऋतावा यज्ञवान्धर्ता सर्वस्य धारक एवं भूतः सन् कृष्टीनामृत्विग्यजमानानां मध्य इद्धः समिद्धः सन् वर्तत इति शेषः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२