प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता॑रमीळते॒ नमो॑भिः ।
आ यस्त॒तान॒ रोद॑सी ऋ॒तेन॒ नित्यं॑ मृजन्ति वा॒जिनं॑ घृ॒तेन॑ ॥
प्र । नु । त्यम् । विप्र॑म् । अ॒ध्व॒रेषु॑ । सा॒धुम् । अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । नमः॑ऽभिः ।
आ । यः । त॒तान॑ । रोद॑सी॒ इति॑ । ऋ॒तेन॑ । नित्य॑म् । मृ॒ज॒न्ति॒ । वा॒जिन॑म् । घृ॒तेन॑ ॥
त्यं तमग्निं नमोभिः स्तुतिभिर्नु क्षिप्रं प्रेळते । स्तुवन्ति । कीदृशं तम् । विप्रं मेधाविनमध्वरेषु साधुं फलसाधकं होतारं होमनिष्पादकम् । यो देवो रोदसी द्यावापृथिव्यावृतेनोदकेना ततान । विस्तारितवान् । अग्नौ प्रास्ताहुतेरादित्यद्वारा वृश्ट्युत्पादकत्वात् । अथवा ऋतेन सत्यभूतेन हविषा दिवं तथाभूतेन वृष्ट्यादिफलेन भुवं चा ततान । वाजिनमन्नवन्तं देवं यजमाना नित्यं घृतेनोदकेनाज्येन वा मृजन्ति । परिचरन्ति ॥ ७ ॥