मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १, ऋक् ८

संहिता

मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑ ।
स॒हस्र॑शृङ्गो वृष॒भस्तदो॑जा॒ विश्वाँ॑ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥

पदपाठः

मा॒र्जा॒ल्यः॑ । मृ॒ज्य॒ते॒ । स्वे । दमू॑नाः । क॒वि॒ऽप्र॒श॒स्तः । अति॑थिः । शि॒वः । नः॒ ।
स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । तत्ऽओ॑जाः । विश्वा॑न् । अ॒ग्ने॒ । सह॑सा । प्र । अ॒सि॒ । अ॒न्यान् ॥

सायणभाष्यम्

मार्जाल्यः सम्मार्जनीयोऽयमग्निर्मृज्यते । परिचर्यते । स्वे स्वकीये स्थाने । कीदृशोऽयम् । दमूना दानमना दान्तमना वा कविप्रशस्तः कविभिर्मेधाविभिः प्रशस्तः प्रकर्षेण स्तुत्यो नोऽस्माकमतिथिरतिथिवत्पूज्यः शिवः सुखकरश्च । सहस्रशृङ्गोऽपरिमितज्वालो वृषभो वर्षिता फलानां तदोजाः । यत्प्रसिद्धं बलं तेजो वास्ति त देवौजो यस्य तादृशः । सर्वबलस्वरूप इत्यर्थः । अथ प्रत्यक्षवादः । हे अग्ने विश्वानन्यान् स्वव्यतिरिक्तान् सर्वान् सहसा बलेन प्रासि । प्रेतिपरेत्यर्थे । पराभवसि । व्याप्तुं वा प्रभवसि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३