मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १, ऋक् ९

संहिता

प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ ।
ई॒ळेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ॥

पदपाठः

प्र । स॒द्यः । अ॒ग्ने॒ । अति॑ । ए॒षि॒ । अ॒न्यान् । आ॒विः । यस्मै॑ । चारु॑ऽतमः । ब॒भूथ॑ ।
ई॒ळेन्यः॑ । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । प्रि॒यः । वि॒शाम् । अति॑थिः । मानु॑षीणाम् ॥

सायणभाष्यम्

हे अग्ने त्वं यज्ञमासाद्य सद्यस्तदानीमेवान्यान् स्वसमानानत्येषि अतिक्रामसि । यस्मै चारुतमः सन्नविर्बभूव । किञ्च त्वमीळेन्यः स्तुत्यो वपुष्यो वपुष्करो दीप्तिकरो वा विभावा विशिष्टदीप्तिमान् प्रियः प्रियभूतो विशां सर्वेषां प्राणिनां तथातिथिः पूज्यो मानुषीणां प्रजानां भवसि ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३