मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २, ऋक् १

संहिता

कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा॑ बिभर्ति॒ न द॑दाति पि॒त्रे ।
अनी॑कमस्य॒ न मि॒नज्जना॑सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ॥

पदपाठः

कु॒मा॒रम् । मा॒ता । यु॒व॒तिः । सम्ऽउ॑ब्धम् । गुहा॑ । बि॒भ॒र्ति॒ । न । द॒दा॒ति॒ । पि॒त्रे ।
अनी॑कम् । अ॒स्य॒ । न । मि॒नत् । जना॑सः । पु॒रः । प॒श्य॒न्ति॒ । निऽहि॑तम् । अ॒र॒तौ ॥

सायणभाष्यम्

कुमारं मातेति द्वादशर्चं द्वितीयं सूक्तम् । अत्रेः पुत्रः कुमारः ऋषिर्जननाम्नः पुत्रो वृशो वोभौ वात्र ऋषी । कमेतं त्वं वि ज्योतिषेत्यनयोस्तु वृश एव नोभौ न कुमारः । अन्त्या षट्पञ्चाशदक्षरा शक्वरी शिष्टास्त्रिष्टुभः । अग्निर्देवता । अत्रानुक्रमणिका । कुमारं कुमारो वृशो वा जान उभौ वा शक्वर्यन्तं कं वीत्यृचोस्तु व्रुश एवेति । प्रातरनुवाकाश्विनशस्त्रयोरस्यापि सूक्तस्य विनियोग उक्तः पूर्वसूक्तेन सह ॥

शाट्यायनब्राह्मणोक्त इतिहास इहोच्यते । राजा त्रैवृष्ण ऐक्ष्वाकस्त्र्यरुणोऽभवदस्य च । पुरोहितो वृशो जान ऋषिरासीत्तदा खलु । सङ्गृह्णन्ति रथान्रज्ञां रक्षनाय पुरोहिताः । त्र्यरुणस्य वृशो रश्मिं सञ्जग्राह पुरोहितः । कुमारो वर्त्मनि क्रीडन्रथचक्रेन घातितः । छिन्नः कुमारश्चक्रेण ममाराथ पुरोहितः । त्वं हन्तास्येति राजानं राजा चापि पुरोहितम् । त्वं हन्तास्य कुमारस्य नाहमित्यब्रवीत्तदा । यतस्त्वं रथवेगस्य नियन्तातस्त्वया हतः । रथस्वामी यतो राजन् तस्मात्त्वं तस्य घातकः । एवं विवदमानौ ताविक्ष्वाकून्प्रष्टुमागतौ । तौ प्रप्रच्छतुरिक्ष्वाकून् केनासौ निहतो द्विजाः । तेऽब्रुवन्रथयन्तारं हन्तारं व्रुशसंज्ञकम् । स वृशो वार्शसाम्ना तं कुमारं समजीवयत् । एवमाख्याय तत्रैव पुनरन्यदुदीरितम् । यत इक्ष्वाकवो रागाद्धन्तारमृषिमब्रुवन् । तस्मात्तेषां गृहेष्वग्नेस्तेजो निर्गतमेशु च । ग्रुहे पाकादयो नासन् तत्कारनमचिन्तयन् । वृशं कुमारहन्तारं यदवोचाम तेन नः । अपाक्रमद्धरो वह्नेराह्वयाम वृशं वयम् । इति सञ्चिन्त्य तमृषिमाह्वयामासुरादरात् । समागत्य ततः शीघ्रं शेशामग्नेर्हरो भवेत् । इति वार्शेन साम्नासावकामयत पूर्ववत् । एवं गायन् स ऋषिर्ब्रह्महत्यां भार्याजातां त्रसदस्योर्नृपस्य । पिशाचवेषां हर आदाय चाग्नेर्गृहान्नीत्वा कशिपौ स्थापयन्तिम् । दृष्ट्वा सम्यक् तद्धरस्तोषयित्वा साम्ना पश्चाद्योजयामास चाग्निम् । ततः स तेजाः सञ्जातोऽभवत्पातादिः पूर्ववत् । एवं शाट्यायनेनोक्तं काण्डकोक्तमथोच्यते । वृशः पुरोधा अभवत्त्र सदस्योर्महीपतेः । स रथं धावयन्राजा ब्राह्मणस्य कुमारकम् । चिच्छेद रथचक्रेण प्रमादात्सोऽब्रवीद्वृशम् । पुरोहिते वर्तमाने त्वयि मां हन्ति रागता । एषा त्वयापनेतव्या ऋशिमित्यब्रवीन्नृपः । स ऋषिर्वार्शसाम्ना तं कुमारमुदजीवयत् । माता कुमारस्योत्पादयित्री युवतिर्यौवनोपेता कुमारं पथि सञ्चरन्तं समुब्धं चक्रेण हतं गुहा गुहायां भिभर्ति । धारयति । न ददाति पित्रे तस्य जनताय । यद्वा माता सर्वस्य निर्मात्री पृथिवी समुब्धं सम्यक् निगूढं गुहायां बिभर्ति । पित्र उत्पादकाय यजमानाय न ददाति । अस्याग्नेर्मिनत् हिंसत् दाहकमनीकं तेजो जना न पश्यन्ति । किन्तु अरतावरण्यां हितं पश्यन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४