मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २, ऋक् २

संहिता

कमे॒तं त्वं यु॑वते कुमा॒रं पेषी॑ बिभर्षि॒ महि॑षी जजान ।
पू॒र्वीर्हि गर्भ॑ः श॒रदो॑ व॒वर्धाप॑श्यं जा॒तं यदसू॑त मा॒ता ॥

पदपाठः

कम् । ए॒तम् । त्वम् । यु॒व॒ते॒ । कु॒मा॒रम् । पेषी॑ । बि॒भ॒र्षि॒ । महि॑षी । ज॒जा॒न॒ ।
पू॒र्वीः । हि । गर्भः॑ । श॒रदः॑ । व॒वर्ध॑ । अप॑श्यम् । जा॒तम् । यत् । असू॑त । मा॒ता ॥

सायणभाष्यम्

अत्राग्नेरुत्पाद्यमानत्वात्कुमारशब्देन व्यवहारः । हे युवते त्वं कमेतं कुमारं पेषी हिंसिका पिशाचिका सती बिभर्षि । एवं वृषाख्यो महर्षिः कशिपुनाच्छन्नमग्नेर्हरो ब्रूते । त्वयानुत्पादितत्वाद्धारणमनुचितमित्यर्थः । महिषी महती पूजनीयारणिरेनं जजान । अजनयत् । तदेवाह । बर्भः शिशोर्ग्राहकोऽरण्याः । सम्बन्धी गर्भो हि यस्मात्पूर्वीः शरदो गताननेकान् संवत्सरान्ववर्ध । ववृधे । अहं च ततो जातमपश्यम् । यद्यस्मान्मातारणिरसूत । उदपादयत् । राजकुमार पक्षे हे युवते भूदेवि कमेतं कुमारं पेषी सती बिभर्षि । अवशिष्टं कुमारजननपरतया योज्यम् । एवमुत्तरत्रापि कुमाराग्निहरसोः परत्वेन यथोचितं व्याख्येयम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४