मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २, ऋक् ४

संहिता

क्षेत्रा॑दपश्यं सनु॒तश्चर॑न्तं सु॒मद्यू॒थं न पु॒रु शोभ॑मानम् ।
न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्यु॑व॒तयो॑ भवन्ति ॥

पदपाठः

क्षेत्रा॑त् । अ॒प॒श्य॒म् । स॒नु॒तरिति॑ । चर॑न्तम् । सु॒ऽमत् । यू॒थम् । न । पु॒रु । शोभ॑मानम् ।
न । ताः । अ॒गृ॒भ्र॒न् । अज॑निष्ट । हि । सः । पलि॑क्नीः । इत् । यु॒व॒तयः॑ । भ॒व॒न्ति॒ ॥

सायणभाष्यम्

अहं वृश इदानीं क्षेत्रात् क्षेत्रे सुनुतः । अन्तर्हितनामैतत् । निगूढं चरन्तमरण्यां यूथं न गवां समूहमिव समत्स्वयमेव पुरु बहु शोभमानमपश्यम् । पश्यामि । पुरा हरसः पिशाच्याक्रमणकाले ता ज्वाला निर्वीर्या नागृभ्रन् । नागृह्णन्त नराः । इदानीं सोऽग्निरजनिष्टहि । हरसा प्रादुरभूत्खलु । अत एव हेतोः पलिक्नीरित्पलिक्न्यः पलिता जीर्णा ज्वाला एवेदानीं युवतयो भवन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४