मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २, ऋक् ५

संहिता

के मे॑ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां॑ गो॒पा अर॑णश्चि॒दास॑ ।
य ईं॑ जगृ॒भुरव॒ ते सृ॑ज॒न्त्वाजा॑ति प॒श्व उप॑ नश्चिकि॒त्वान् ॥

पदपाठः

के । मे॒ । म॒र्य॒कम् । वि । य॒व॒न्त॒ । गोभिः॑ । न । येषा॑म् । गो॒पाः । अर॑णः । चि॒त् । आस॑ ।
ये । ई॒म् । ज॒गृ॒भुः । अव॑ । ते । सृ॒ज॒न्तु । आ । अ॒जा॒ति॒ । प॒श्वः । उप॑ । नः॒ । चि॒कि॒त्वान् ॥

सायणभाष्यम्

के मे मदीयं मर्यकं मर्त्यसङ्घं राष्ट्रं गोभिः सह वि यवन्त । वियुक्तमकुर्वन् । गा भृत्यांश्च व्ययोजयन् । येषां गोपा अस्माकं गोपयितारणश्चिदभिगन्ता नास । बभूव । सोऽयमग्निः । ये द्वॆषिण ईमेनं जनसङ्घं राष्ट्रं जग्रुभुः । गृह्णन्ति । तेऽव सृजन्तु । नश्यन्तु । किञ्च चिकित्वान् चेतनावानस्मद्विषयज्ञानवानग्निर्नोऽस्माकं पश्व पशूनुपाजाति । उपागच्छति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४