मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २, ऋक् ७

संहिता

शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द्यूपा॑दमुञ्चो॒ अश॑मिष्ट॒ हि षः ।
ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न्होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ॥

पदपाठः

शुनः॒ऽशेप॑म् । चि॒त् । निऽदि॑तम् । स॒हस्रा॑त् । यूपा॑त् । अ॒मु॒ञ्चः॒ । अश॑मिष्ट । हि । सः ।
ए॒व । अ॒स्मत् । अ॒ग्ने॒ । वि । मु॒मु॒ग्धि॒ । पाशा॑न् । होत॒रिति॑ । चि॒कि॒त्वः॒ । इ॒ह । तु । नि॒ऽसद्य॑ ॥

सायणभाष्यम्

अंजःसव आवहनीयोपस्थाने शुनश्चिच्छेपमित्येषा । अग्निमाहवनीयमुपस्थापयाञ्चकार शुनश्चिच्छेपं निदितं सहस्रात् । ऐ. ब्रा. ७-१७ । इति ब्राह्मणम् ।

हे अग्ने निदितं नितरां बद्धं शुनःशेपमृषिं सहस्रादनेकरूपाद्यूपादमुञ्चः । अमोचयः । चिदिति पूरणः । शुनःशेपमिति पदस्य मध्ये पदान्तरस्य संहितायां व्यत्ययेनावस्थितिः । स ऋषिरशिमिष्ट हि । शान्तवान् खलु । यद्वा । स हि यस्मादशमिष्ट । स्तुतिकर्मैतत् । तस्तारवीत् । तस्मादमुञ्च इति सम्बन्धः । एवैवमस्मदस्मत्तः पाशान्वि मुमुग्धि । विमोचय । हे होतर्हे चिकित्वश्चेतनवान्नग्ने इह तु वेद्यां निषद्यावस्थाय ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५