मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २, ऋक् ८

संहिता

हृ॒णी॒यमा॑नो॒ अप॒ हि मदैये॒ः प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच ।
इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥

पदपाठः

हृ॒णी॒यमा॑नः । अप॑ । हि । मत् । ऐयेः॑ । प्र । मे॒ । दे॒वाना॑म् । व्र॒त॒ऽपाः । उ॒वा॒च॒ ।
इन्द्रः॑ । वि॒द्वान् । अनु॑ । हि । त्वा॒ । च॒चक्ष॑ । तेन॑ । अ॒हम् । अ॒ग्ने॒ । अनु॑ऽशिष्टः । आ । अ॒गा॒म् ॥

सायणभाष्यम्

हे अग्ने हृणीयमानः क्रुध्यन्स्त्वं मत मत्तोऽपैयेर्हि । अपागाः खलु । ई गतावित्यस्मात् श्यन्विकरणाल्लङि मध्यमे छान्दसे परस्मैपद आडागमे वृद्धौ व्यत्ययेन श्यनोऽकारस्य एकारे च कृते रूपम् । मे मह्यं देवानां व्रतपाः कर्मणः पालक इन्द्रः प्रोवाच हि । स एव विद्वान् त्वानु चचक्ष । त्वां ददर्श । तेनानुशिष्तोऽहं हे अग्ने त्वामागामिति । एवं वृश आह ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५