मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २, ऋक् ९

संहिता

वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा ।
प्रादे॑वीर्मा॒याः स॑हते दु॒रेवा॒ः शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ ॥

पदपाठः

वि । ज्योति॑षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्निः । आ॒विः । विश्वा॑नि । कृ॒णु॒ते॒ । म॒हि॒ऽत्वा ।
प्र । अदे॑वीः । मा॒याः । स॒ह॒ते॒ । दुः॒ऽएवाः॑ । शिशी॑ते । शृङ्गे॒ इति॑ । रक्ष॑से । वि॒ऽनिक्षे॑ ॥

सायणभाष्यम्

अयमग्निर्ज्योतिषा तेजसा बृहता महता वि भाति । विशेषेण दीप्यते । अथ तथाभूतः सन् महित्वा स्वमहत्त्वेन विश्वानि सर्वाणि पदार्थाजातान्याविष्कृणुते । प्रकटीकरोति । एवं प्रवृद्धोऽग्निरदेवीरदेवनशीला असुरीर्माया दुरेवा दुःखगमनाः प्रसहते । अभिभवति । किञ्च शिशीते । तीक्ष्णीकरोति । शृङ्गे शृङ्गाणि । शृङ्गसदृशीर्हिंसिका वा ज्वालाः शिशीते । तीक्ष्णीकरोति । किमर्थम् । रक्षसे विनिक्षे रक्षसो नाशाय । निश्यति शृङ्गे रक्षसो विनिक्षणनाय । नि. ४-१८ । इति यास्कः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५