मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २, ऋक् १०

संहिता

उ॒त स्वा॒नासो॑ दि॒वि ष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ ।
मदे॑ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥

पदपाठः

उ॒त । स्वा॒नासः॑ । दि॒वि । स॒न्तु॒ । अ॒ग्नेः । ति॒ग्मऽआ॑युधाः । रक्ष॑से । हन्त॒वै । ऊं॒ इति॑ ।
मदे॑ । चि॒त् । अ॒स्य॒ । प्र । रु॒ज॒न्ति॒ । भामाः॑ । न । व॒र॒न्ते॒ । प॒रि॒ऽबाधः॑ । अदे॑वीः ॥

सायणभाष्यम्

उतापि चाग्नेः स्वानसः शब्दं कुर्वाणा ज्वाला दिवि षन्तु । द्युलोके प्रादुर्भवन्तु । किमर्थम् । तिग्मायुधास्तीक्ष्णायुधास्थानीया ज्वालाः । रक्शसे हन्तवा उ रक्शसो हननाय । उ इति पूरणः । मदे चित् हर्षे सत्यस्याग्नेर्भामाः क्रोधा दीप्तयो वा प्र रुजन्ति । प्रकर्षेन भङ्ग गच्छन्ति पीडयन्ति वा रक्षांसि । परिबाधः परितो बाधिका अदेवीरदेवना आसुर्यः सेना न वरन्ते । न वारयन्त्येनम् । ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५