मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २, ऋक् ११

संहिता

ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रो॒ रथं॒ न धीर॒ः स्वपा॑ अतक्षम् ।
यदीद॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्या॒ः स्व॑र्वतीर॒प ए॑ना जयेम ॥

पदपाठः

ए॒तम् । ते॒ । स्तोम॑म् । तु॒वि॒ऽजा॒त॒ । विप्रः॑ । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्ष॒म् ।
यदि॑ । इत् । अ॒ग्ने॒ । प्रति॑ । त्वम् । दे॒व॒ । हर्याः॑ । स्वः॑ऽवतीः । अ॒पः । ए॒न॒ । ज॒ये॒म॒ ॥

सायणभाष्यम्

हे तुविजात बहुभावमापन्नाग्ने ते त्वदर्थमेतं स्तोममेतत्स्तोत्रं विप्रो मेधावी स्तोता रथं न रथमिव धीरः स्वपाः शोभनकर्माहमतक्षम् । समपादयम् । हे अग्ने देव त्वं यदीदेनं स्तोमं प्रति हर्याः । प्रतिकामयेथाः । तर्हि स्वर्वतोः स्वरणवतीर्व्याप्तिमतीरपि एनैनेन जयेम । प्राप्नुयाम । ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५