मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् २

संहिता

त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्वधाव॒न्गुह्यं॑ बिभर्षि ।
अ॒ञ्जन्ति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ ॥

पदपाठः

त्वम् । अ॒र्य॒मा । भ॒व॒सि॒ । यत् । क॒नीना॑म् । नाम॑ । स्वधाऽव॑न् । गुह्य॑म् । बि॒भ॒र्षि॒ ।
अ॒ञ्जन्ति॑ । मि॒त्रम् । सुऽधि॑तम् । न । गोभिः॑ । यत् । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । कृ॒णोषि॑ ॥

सायणभाष्यम्

विवाहे चतुर्थ्यामाज्याहुतौ त्वमर्यमेत्येषा । सूत्रितं च । त्वमर्यमा भवसि यत्कनीनामिति विवाहे चतुर्थीम् । आ. गृ. १-४ । इति ॥

हे अग्ने त्वमर्यमा भवसि । सर्वेषां नियमितासि । यद्यदा कनीनां कन्यकानां सम्बन्ध्यसि । किञ्च हे स्वधावन् हविर्लक्षणान्नवन् गुह्यं गोपनीयं नाम बिभर्षि वैश्वानर इति तन्नाम । सुधितं सुष्ठु सहितं मित्रं न मित्रमिव गोभिः । विकारे प्रकृतिशब्दः । गोविकारैः क्षीरादिभिरञ्जन्ति । यद्यस्माद्दम्पती ज्यायापती । समनसा समानमनस्कौ कृणोषि । करोषि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६