मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् ३

संहिता

तव॑ श्रि॒ये म॒रुतो॑ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रम् ।
प॒दं यद्विष्णो॑रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोना॑म् ॥

पदपाठः

तव॑ । श्रि॒ये । म॒रुतः॑ । म॒र्ज॒य॒न्त॒ । रुद्र॑ । यत् । ते॒ । जनि॑म । चारु॑ । चि॒त्रम् ।
प॒दम् । यत् । विष्णोः॑ । उ॒प॒ऽमम् । नि॒ऽधायि॑ । तेन॑ । पा॒सि॒ । गुह्य॑म् । नाम॑ । गोना॑म् ॥

सायणभाष्यम्

अनयाग्नेर्मध्यमिकी मूर्तिरुच्यते । हे अग्ने तव श्रिये श्रयणाय मरुतोऽपोऽन्तरिक्ष्या मर्जयन्त । मार्जयन्ति । हे रुद्र वृष्ट्या रुद्रवद्वर्धितरग्ने ते तव यज्जनिम । जन्म वैद्युतलक्शणं चारु चरणीयं चित्रं चायनीयं च तत्कथमिति चेदुच्यते । विष्णॊर्व्यापनशीलस्य देवस्योपमं गुह्यमगम्यं यत्पदं निधायि । अनेनान्तरिक्षमुक्तम् । उपमेयमिव विष्णॊर्मध्यमम् पदं तस्मान्नान्तरिक्शं पश्यन्तिति ब्राह्मणम् । तेन गोनामुदकानां गुह्यं नाम नामानि पासि । रक्षसि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६