मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् ४

संहिता

तव॑ श्रि॒या सु॒दृशो॑ देव दे॒वाः पु॒रू दधा॑ना अ॒मृतं॑ सपन्त ।
होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्दश॒स्यन्त॑ उ॒शिज॒ः शंस॑मा॒योः ॥

पदपाठः

तव॑ । श्रि॒या । सु॒ऽदृशः॑ । दे॒व॒ । दे॒वाः । पु॒रु । दधा॑नाः । अ॒मृत॑म् । स॒प॒न्त॒ ।
होता॑रम् । अ॒ग्निम् । मनु॑षः । नि । से॒दुः॒ । द॒श॒स्यन्तः॑ । उ॒शिजः॑ । शंस॑म् । आ॒योः ॥

सायणभाष्यम्

हे देवाग्ने सुदृशस्तव श्रिया समृद्ध्या देवा इन्द्रादयः पुर्वत्यधिकं दधानास्त्वयि प्रीतिं धारयन्तोऽमृतं सपन्त । स्पृशन्ति । होतारं होमनिश्पादकमग्निं मनुषो मनुष्या निशेदुः । परिचरन्त्युत्विजः । किं कुर्वन्तः । दशस्यन्तो हविर्वितरन्तः शंसं फलमुशिजः कामयमानस्यायोर्मनुष्यस्य यजमानस्यार्थं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६