मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् ६

संहिता

व॒यम॑ग्ने वनुयाम॒ त्वोता॑ वसू॒यवो॑ ह॒विषा॒ बुध्य॑मानाः ।
व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां॑ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ॥

पदपाठः

व॒यम् । अ॒ग्ने॒ । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः । व॒सु॒ऽयवः॑ । ह॒विषा॑ । बुध्य॑मानाः ।
व॒यम् । स॒ऽम॒र्ये । वि॒दथे॑षु । अह्ना॑म् । व॒यम् । रा॒या । स॒ह॒सः॒ । पु॒त्र॒ । मर्ता॑न् ॥

सायणभाष्यम्

हे अग्ने वयं यजमानास्त्वोतास्त्वया रक्षिताः सन्तो वनुयाम । शत्रून्पीडयाम सम्भजेमहि वा धनम् । कीदृशा वयम् । वसूयवो वसुकामा हविशा त्वां बुध्यमाना बोधयन्तो वयं समर्ये समरणे जयेम शत्रूनिति शेषः । विदथेषु यागेषु प्राप्नुयाम बलम् । यद्वा । वनुयामेत्येतदनुषज्यते । अह्नां सर्वेष्वहःसु । किञ्च वयं हे सहसस्पुत्र बलस्य पुत्र पालक वाग्ने राया धनेन सह मर्त्यान्पुत्रभृत्यादीन् लभेमहि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६