मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् ७

संहिता

यो न॒ आगो॑ अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं॑से दधात ।
ज॒ही चि॑कित्वो अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो॑ म॒र्चय॑ति द्व॒येन॑ ॥

पदपाठः

यः । नः॒ । आगः॑ । अ॒भि । एनः॑ । भरा॑ति । अधि॑ । इत् । अ॒घम् । अ॒घऽशं॑से । द॒धा॒त॒ ।
ज॒हि । चि॒कि॒त्वः॒ । अ॒भिऽश॑स्तिम् । ए॒ताम् । अ॒ग्ने॒ । यः । नः॒ । म॒र्चय॑ति । द्व॒येन॑ ॥

सायणभाष्यम्

यो मर्त्य आगोऽपराधमेनः पापं च नोऽस्मभ्यमभि भराति । अभितः करोति । तस्मिन्नघशंसेऽघं पापमधि दधात । ददात्वग्निः । इदिति पूरणः । आगोऽवराधं यो मह्यमिदं करोति तस्मा एवाग्निस्तत्करोत्वित्यर्थः । अथ प्रत्यक्षेणोच्यते । हे अग्ने एतामभिशस्तिं जहि । उत्तरत्र यच्छब्दश्रवणात्तदानुगुण्येनैनमभिशंसकमिति ब्याख्येयम् । योऽभिशस्ता नोऽस्मान्द्वयेनोक्तेनागसैनसा वा मर्चयति । बाधते । तमिति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७