मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् ८

संहिता

त्वाम॒स्या व्युषि॑ देव॒ पूर्वे॑ दू॒तं कृ॑ण्वा॒ना अ॑यजन्त ह॒व्यैः ।
सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा॑नः ॥

पदपाठः

त्वाम् । अ॒स्याः । वि॒ऽउषि॑ । दे॒व॒ । पूर्वे॑ । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । ह॒व्यैः ।
स॒म्ऽस्थे । यत् । अ॒ग्ने॒ । ईय॑से । र॒यी॒णाम् । दे॒वः । मर्तैः॑ । वसु॑ऽभिः । इ॒ध्यमा॑नः ॥

सायणभाष्यम्

हे अग्ने त्वामस्या रात्रेर्व्युषि । व्युष्टायामुषसीत्यर्थः । पूर्वे पुरातना यजमाना दूतं देवानां प्रेरकं कृण्वानाः कुर्वाणा अयजन्त हव्यैर्हविर्भिः साधनै रयीणां हविर्लकाहणानां संस्थे संस्थान आसादने सति हे अग्ने यद्यदेयसे । गच्छसि । देवो द्योतमानो मर्तैर्मनुष्यैरृत्विग्भिर्वसुभिर्वासकैरिध्यमानः समिध्यमानः सन् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७