मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् १०

संहिता

भूरि॒ नाम॒ वन्द॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया॑से ।
कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ॥

पदपाठः

भूरि॑ । नाम॑ । वन्द॑मानः । द॒धा॒ति॒ । पि॒ता । व॒सो॒ इति॑ । यदि॑ । तत् । जो॒षया॑से ।
कु॒वित् । दे॒वस्य॑ । सह॑सा । च॒का॒नः । सु॒म्नम् । अ॒ग्निः । व॒न॒ते॒ । व॒वृ॒धा॒नः ॥

सायणभाष्यम्

भूरिप्रभूतं नाम त्वदीयं नाम वन्दमानः सन् दधाति । धारयति । सामर्थ्याद्धविः । अथवा नामकं हविः प्रभूतं धारयति दातुम् । पिता पालकस्त्वं हे वसो वासकाग्ने यदि तद्धविर्जोषयासे । सेवसे । देवस्य व्यवहर्तुर्यजमानस्य कुविद्बहु हविः सहसा बलेन युक्तः सन् चकानः कामयमानः । यद्वा कर्मणि षष्ठी । देवं यजमानं कामयानोऽग्निर्वृधानो वर्धमानो यजमानं वर्धयन्वा सुम्नं वनते । प्रयच्छाति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७