मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४, ऋक् १

संहिता

त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र म॑न्दे अध्व॒रेषु॑ राजन् ।
त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नाम् ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । वसु॑ऽपतिम् । वसू॑नाम् । अ॒भि । प्र । म॒न्दे॒ । अ॒ध्व॒रेषु॑ । रा॒ज॒न् ।
त्वया॑ । वाज॑म् । वा॒ज॒ऽयन्तः॑ । ज॒ये॒म॒ । अ॒भि । स्या॒म॒ । पृ॒त्सु॒तीः । मर्त्या॑नाम् ॥

सायणभाष्यम्

त्वामग्न इत्येकादशर्चं चतुर्थं सूक्तमात्रेयस्य वसुश्रुतस्यार्षं त्रैष्टुभमाग्नेयम् । अनुक्रान्तं च । त्वामग्ने एकादशेति । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगोऽबोध्यग्निरित्यत्रोक्तः ॥

हे अग्ने वसूनां वसुपतिम् । वृत्त्यवृत्तिभ्यां वसूनां बाहुल्यं तत्स्वामित्वं चोक्तम् । बाहूनां धनानां स्वामिनं त्वामध्वरेषु यागेष्वभि प्र मन्दे । अभिमुख्येन स्त्ॐइ हे राजन् । किञ्च त्वयानुकूलेन वाजयन्तोऽन्नमिच्छन्तो वयं वाजं जयेम । किञ्च मर्त्यानां मरनधर्मकाणां पृत्सुतीः सेना अभिष्याम । अभिभवेम ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८