मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४, ऋक् २

संहिता

ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे ।
सु॒गा॒र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ॥

पदपाठः

ह॒व्य॒ऽवाट् । अ॒ग्निः । अ॒जरः॑ । पि॒ता । नः॒ । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽदृशी॑कः । अ॒स्मे इति॑ ।
सु॒ऽगा॒र्ह॒प॒त्याः । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ॥

सायणभाष्यम्

दर्शपूर्णमासे पत्नीसंयाजे गृहपतेर्याज्यैषा । सुत्रितं च । हव्यवालग्निरजरः पिता न इति पत्नीसंयाजाः । आ. १-१० । इति । एवाअसुवां हविः ष्वप्यग्नेरेषैव याज्या । सूत्रितं च । हव्यवाळग्निरजरः पिता नस्त्वं च सोम नो वशः । आ. ४-१० । इति ॥

अयं हव्यवाडग्निरजरोऽजीर्नः सन् नः पिता भवत्विति शेशः । किञ्च विभुर्व्याप्तः विभावा दीप्तिमान् सुदृशीकः शोभनदर्शनोऽस्मे अस्माकं भवतु । अथ प्रत्यक्शवादः । सुगार्हपत्याः शोभनगार्हपत्ययुक्तानीशोऽन्नानि सं दिदीहि । सम्यक् प्रकाशय । ददस्व वा । अस्मद्र्यक् अस्मदभिमुखं श्रवांस्यन्नानि सं मिमीहि । सम्यक् प्रयच्छ ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८