मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४, ऋक् ३

संहिता

वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं॑ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम् ।
नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या॑णि ॥

पदपाठः

वि॒शाम् । क॒विम् । वि॒श्पति॑म् । मानु॑षीणाम् । शुचि॑म् । पा॒व॒कम् । घृ॒तऽपृ॑ष्ठम् । अ॒ग्निम् ।
नि । होता॑रम् । वि॒श्व॒ऽविद॑म् । द॒धि॒ध्वे॒ । सः । दे॒वेषु॑ । व॒न॒ते॒ । वार्या॑णि ॥

सायणभाष्यम्

मानुषीणां विशां विश्पतिं सर्वासां मनुष्यरूपाणां प्रजानां पालकं स्वामिनं वा कविं मेधाविनं शुचिं शुद्धं दीप्तं वा पावकमन्येषां शोधकं घृतपृष्ठं प्रदीप्तपृष्ठोपलक्षितशरीरम् । अथवा उपरितनभागोज्योपेतं होतारं होमनिष्पादकं विश्वविदं विश्वस्य वेत्तारमग्निं नि दधिध्वे । धारयथ । हे रुत्विजः । स देवो देवेषु मध्ये वार्याणि वरणीयानि धनानि वनते । सम्भजतेऽस्मदर्थः । स्वयं वा वार्याणि हवींषि वनते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८