मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४, ऋक् ४

संहिता

जु॒षस्वा॑ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभि॒ः सूर्य॑स्य ।
जु॒षस्व॑ नः स॒मिधं॑ जातवेद॒ आ च॑ दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥

पदपाठः

जु॒षस्व॑ । अ॒ग्ने॒ । इळ॑या । स॒ऽजोषाः॑ । यत॑मानः । र॒श्मिऽभिः॑ । सूर्य॑स्य ।
जु॒षस्व॑ । नः॒ । स॒म्ऽइध॑म् । जा॒त॒ऽवे॒दः॒ । आ । च॒ । दे॒वान् । ह॒विः॒ऽअद्या॑य । व॒क्षि॒ ॥

सायणभाष्यम्

हे अग्ने जुषस्व । सेवस्व स्तुतिम् । इळया वेदिलक्षनया भूम्या वाचा वा सजॊशाः समानप्रीतिः । तथा सूर्यस्य रश्मिभिर्यतमानः प्रयत्नमुषः काले कुर्वन् । किञ्च हे जातवेदो जातस्य वेदितरग्ने नोऽस्मदीयां समिधं जुषस्व । सेवस्व । आवह च देवान्हविरद्याय हविरदनाय । आवाह्य वक्षि । वहसि तद्धविः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८