मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४, ऋक् ५

संहिता

जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् ।
विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥

पदपाठः

जुष्टः॑ । दमू॑नाः । अति॑थिः । दु॒रो॒णे । इ॒मम् । नः॒ । य॒ज्ञम् । उप॑ । या॒हि॒ । वि॒द्वान् ।
विश्वा॑ । अ॒ग्ने॒ । अ॒भि॒ऽयुजः॑ । वि॒ऽहत्य॑ । श॒त्रु॒ऽय॒ताम् । आ । भ॒र॒ । भोज॑नानि ॥

सायणभाष्यम्

अथ पवित्रेष्त्याम् स्विष्तकृतोऽनुवाक्यैषा । सूत्रितं च । जुश्टो दमूना अग्ने शर्ध महते सौभगायेति संयाज्ये । आ. २-१२ । इति मरुद्भ्यः पुरोडाशं सप्तकपालमित्यत्रापि स्विष्टकृतोऽनुवाक्या । अत्यासो न ये मरुतः स्वञ्चो जुष्तो दमूनाः । आ. २-१८ । इति ॥

जुष्टः पर्याप्तो दमूना दानमना दान्तमना वा अतिथिस्तद्वद्दुरोणे गृहे पूज्यः सन् इमं नोऽस्मदीयं यज्ञमुप याहि । उपगच्छ । विद्वान् जानन् हे अग्ने विश्वा अभियुजो सर्वानभियोक्तॄन्विहत्य शत्रूयतां तेषां भोजनान्यन्नानि धनान्या भर । आहर । अतिथिरभ्यतितो ग्रुहान्भवतीत्यादिनिरुक्तम् । नि. ४-५ । द्रष्टव्यम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८