मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४, ऋक् ६

संहिता

व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑ ।
पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥

पदपाठः

वे॒धेन॑ । दस्यु॑म् । प्र । हि । चा॒तय॑स्व । वयः॑ । कृ॒ण्वा॒नः । त॒न्वे॑ । स्वायै॑ ।
पिप॑र्षि । यत् । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वान् । सः । अ॒ग्ने॒ । पा॒हि॒ । नृ॒ऽत॒म॒ । वाजे॑ । अ॒स्मान् ॥

सायणभाष्यम्

हे अग्ने वधेनायुधेन दस्युमुपक्षपयितारं प्र हि जातयस्व । प्रणाशय । हीति पूरणः । वयः कृण्वानः कुर्वाणस्तन्वे शरीराय स्वायै स्वीयाय । अथवा स्वायै तन्वे यजमानादिरूपाय पुत्राय वयोऽन्नं कुर्वाणः । यद्यस्मात् सहसस्पुत्राग्ने देवान्पिपर्शि । तर्पयसि । हे नृतम नेतृतमाग्ने स त्वं वाजे सङ्ग्रामेऽस्मान् पाहि । रक्ष ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९