मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४, ऋक् ७

संहिता

व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे ।
अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि ॥

पदपाठः

व॒यम् । ते॒ । अ॒ग्ने॒ । उ॒क्थैः । वि॒धे॒म॒ । व॒यम् । ह॒व्यैः । पा॒व॒क॒ । भ॒द्र॒ऽशो॒चे॒ ।
अ॒स्मे इति॑ । र॒यिम् । वि॒श्वऽवा॑रम् । सम् । इ॒न्व॒ । अ॒स्मे इति॑ । विश्वा॑नि । द्रवि॑णानि । धे॒हि॒ ॥

सायणभाष्यम्

हे अग्ने ते त्वां वयमुक्थैः शस्त्रैर्विधेम । परिचरेम । वयं हव्यैर्हविर्भिर्विधेम । पावक शोधक हे भद्रशोचे कल्याणदीप्ते अस्मे अस्मभ्यं विश्ववारं विश्वैर्वरणीयं रय ं धनं समिन्व । प्रापय । अस्मे अस्मभ्यं विश्वानि द्रविणानि देहि । स्थापय ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९