मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४, ऋक् ८

संहिता

अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् ।
व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि ॥

पदपाठः

अ॒स्माक॑म् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । सह॑सः । सू॒नो॒ इति॑ । त्रि॒ऽस॒ध॒स्थ॒ । ह॒व्यम् ।
व॒यम् । दे॒वेषु॑ । सु॒ऽकृतः॑ । स्या॒म॒ । शर्म॑णा । नः॒ । त्रि॒ऽवरू॑थेन । पा॒हि॒ ॥

सायणभाष्यम्

हे अग्ने अस्माकमध्वरं जुषस्व । सेवस्व । हे सहसः सूनो हे बलस्य पुत्र त्रिषधस्थ त्रिषु क्षित्यादिषु स्थानेषु स्थितहव्यं हविर्जुषस्व । यद्वा । अध्वरं हविरिति योज्यम् । अहिंसितं हविरित्यर्थः । वयं यजमाना देवेषु मध्ये सुकृतः शोभनापूर्वकर्तारः स्याम भवेम । त्रिवरूथेन वाचिकादिभेदेन त्रिधा वरणीयेन शर्मणा सुखेन त्रिच्छकिष्केण ग्रुहेण वा नः पाहि । रक्श ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९