मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४, ऋक् ९

संहिता

विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒ः सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि ।
अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑म् ॥

पदपाठः

विश्वा॑नि । नः॒ । दुः॒ऽगहा॑ । जा॒त॒ऽवे॒दः॒ । सिन्धु॑म् । न । ना॒वा । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ ।
अग्ने॑ । अ॒त्रि॒ऽवत् । नम॑सा । गृ॒णा॒नः । अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । त॒नूना॑म् ॥

सायणभाष्यम्

हे जातवेदो नोऽस्माकं दुर्गहा दुःखेन गाह्यानि दुःखेन भोग्यानि विश्वानि दुरितान्यति पर्षि । अतिपारय । सिन्धुं न नावा नदीं नाविको यथा तद्वत् । हे अग्ने अत्रिवत् अत्रेर्यथा तथास्माकं नमसा स्तोत्रेण गृणानः स्तूयुमानः सन् अस्माकं तनूनामविता रक्षको बोधि । बुध्यस्व ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९